छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥
एवमेवैष मघवन् , सम्यक्त्वया अवगतम् , न च्छाया आत्मा — इत्युवाच प्रजापतिः । यो मयोक्त आत्मा प्रकृतः, एतमेवात्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्यास्यामि । यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीः, अतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थ्यस्त्वम् । अतस्तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि — इत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै ह उवाच ॥

इन्द्राभिप्रायं बुद्ध्वा प्रजापतिरनुमोदितवानित्युक्तमिदानीमनुमोदनवाक्यं व्याकरोति –

एवमेवेति ।

इन्द्राभिप्रायविषय एष शब्दः ।

अनुव्याख्यास्यामीत्युक्तं श्रुत्वा श्रोतुकाममुपगतमिन्द्रंप्रत्याह –

यस्मादिति ॥३॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य नवमः खण्डः ॥