छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
य आत्मापहतपाप्मादिलक्षणः ‘य एषोऽक्षिणि’ (छा. उ. ८ । ७ । ४) इत्यादिना व्याख्यात एष सः । कोऽसौ ? यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरति अनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः । एष आत्मेति ह उवाच इत्यादि समानम् । स ह एवमुक्तः इन्द्रः शान्तहृदयः प्रवव्राज । स ह अप्राप्यैव देवान् पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श । कथम् ? तदिदं शरीरं यद्यप्यन्धं भवति, स्वप्नात्मा यः अनन्धः स भवति । यदि स्राममिदं शरीरम् , अस्रामश्च स भवति । नैवैष स्वप्नात्मा अस्य देहस्य दोषेण दुष्यति ॥

पूर्ववच्छायात्मदर्शनवदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्न दृशीत्यर्थः । छायात्मनः शरीरानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथा च कथं पूर्ववद्दोषदर्शनमित्याशङ्क्य परिहरति –

कथमित्यादिना ॥१॥