छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
जाग्रति स्वप्ने वा । अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् । अपीतः अपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने । न च सुषुप्तस्य ज्ञानं दृश्यते ; अतो विनष्ट इवेत्यभिप्रायः । न तु विनाशमेव आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन् ॥

यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेहाप्येतं त्वेवेत्युक्त्वा तद्यत्रैतदित्याह –

विशिष्टाधिकारिणे प्रजापतिरिति योजना ।

व्याख्यातस्यैव वाक्यस्यार्थं संक्षिप्य दर्शयति –

अक्षिणीति ।

तत्रापि सुषुप्तदर्शनेऽपीत्यर्थः ।

तदेव दोषदर्शनं प्रश्नद्वारा स्फोरयति –

कथमित्यादिना ।

स्वात्मानं न जानातीत्युक्तमेवाऽऽकाङ्क्षाद्वारेणाभिनयति –

कथमिति ।

तत्र वैधर्म्यदृष्टान्तमाह –

यथेति ।

स्वपरविवेकाभावे दोषमाह –

अत इति ।

घ्नन्ति त्वेवेत्यत्रोक्तं लक्षयति –

पूर्ववदिति ।

कुतो ज्ञानाभावमात्रेण विनष्टत्वमित्याशङ्क्योक्तमभिप्रायं स्पष्टयति –

ज्ञाने हीति ।

एवकारो यथाश्रुत एव किं न स्यादित्याशङ्क्याऽऽह –

न त्विति ॥१-२॥