स्राम्येण चक्षुरादिगतानवरतसलिलगलनविषयत्वेनेति यावत् । देहदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह –
यदध्यायादाविति ।
न्यायोऽन्वयव्यतिरेकाख्यः ।
एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्देहाभिमानाभावान्न तेन संसृज्यत इत्याह –
तदिहेति ।
स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्क्याऽऽह –
न तावदिति ।
किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह –
न त्विति ।
इति शब्दो द्रष्टव्यमित्यनेन सम्बध्यते ।
देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते –
नास्येति ।
किमयं प्रजापतिमाप्तमनाप्तं वा मन्यते ? यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं सम्भवतीति मत्वाऽऽह –
नैवमिति ।
विकल्पान्तरं प्रत्याह –
प्रजापतिमिति ।
न स्वतो हननं स्वप्नदृशो विवक्षितमिन्द्रस्येति शेषः ।
उक्तमेव स्फोरयति –
एतदिति ।
दृष्टान्तेन शङ्कते –
नन्विति ।
दृष्टान्तं विघटयति –
नैवमिति ।
तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति –
कस्मादित्यादिना ।
एतदेवाऽऽकाङ्क्षापूर्वकं प्रपञ्चयति –
कथमित्यादिना ।
अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानित्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह –
तथेति ।
यथेदं वाक्यमक्ष्युपलक्षितद्रष्टृपरं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विनाशदृष्टिरित्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् ।
इवशब्दमाक्षिपति –
नन्विति ।
वेत्तृत्वं विकारश्चेदमृतत्वं न स्यान्मृदादिवद्विनाशित्वप्रसङ्गात्तस्मादिवशब्दो युक्त इत्युत्तरमाह –
उच्यत इति ।
अहं वेद्मीतिविक्रियाश्रयत्वप्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते –
नन्विति ।
अध्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिद्ध्यतीति परिहरति –
नेत्यादिना ।
नाहमित्यादि वाक्यमवतारयति –
तिष्ठत्विति ।
न वेत्त्यप्रियवेत्तैव भवतीत्यर्थः ।
इष्टं सर्वलोककामावाप्तिलक्षणं विधेये ब्रह्मभावेनाऽऽध्यासिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुनरुद्देशेऽप्यागतमतस्त्वदभिप्रायेणाप्रियवेत्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि –
तवेति ।
तत्र हेतुमाह –
आत्मन इति ।
वसापराणीत्यादिवाक्यतात्पर्यमाह –
द्विरुक्तमपीति ।
तथा प्रजापतिवाक्यानुसारेणेति यावत् ॥२-४॥