पूर्ववच्छायात्मदर्शनवदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्न दृशीत्यर्थः । छायात्मनः शरीरानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथा च कथं पूर्ववद्दोषदर्शनमित्याशङ्क्य परिहरति –
कथमित्यादिना ॥१॥