छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै होवाच ॥ ४ ॥
नापि अस्य वधेन स हन्यते छायात्मवत् । न च अस्य स्राम्येण स्रामः स्वप्नात्मा भवति । यदध्यायादौ आगममात्रेणोपन्यस्तम् — ‘नास्य जरयैतज्जीर्यति’ (छा. उ. ८ । १ । ५) इत्यादि, तदिह न्यायेनोपपादयितुमुपन्यस्तम् । न तावदयं छायात्मवद्देहदोषयुक्तः, किं तु घ्नन्ति त्वेव एनम् । एव - शब्दः इवार्थे । घ्नन्तीवैनं केचनेति द्रष्टव्यम् , न तु घ्नन्त्येवेति, उत्तरेषु सर्वेष्विवशब्ददर्शनात् । नास्य वधेन हन्यत इति विशेषणात् घ्नन्ति त्वेवेति चेत् , नैवम् । प्रजापतिं प्रमाणीकुर्वतः अनृतवादित्वापादनानुपपत्तेः । ‘एतदमृतम्’ इत्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रः तं प्रमाणीकुर्वन् । ननु च्छायापुरुषे प्रजापतिनोक्ते ‘अस्य शरीरस्य नाशमन्वेष नश्यति’ (छा. उ. ८ । ९ । २) इति दोषमभ्यदधात् , तथेहापि स्यात् । नैवम् । कस्मात् ? ‘य एषोऽक्षिणि पुरुषो दृश्यते’ (छा. उ. ८ । ७ । ४) इति न च्छायात्मा प्रजापतिनोक्त इति मन्यते मघवान् । कथम् ? अपहतपाप्मादिलक्षणे पृष्टे यदि च्छायात्मा प्रजापतिनोक्त इति मन्यते, तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् ? जगाम च । तस्मात् न च्छायात्मा प्रजापतिनोक्त इति मन्यते । तथा च व्याख्यातम् — द्रष्टा अक्षिणि दृश्यत इति । तथा विच्छादयन्तीव विद्रावयन्तीव, तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति । अपि च स्वयमपि रोदितीव । ननु अप्रियं वेत्त्येव, कथं वेत्तेवेति, उच्यते — न, अमृताभयत्ववचनानुपपत्तेः, ‘ध्यायतीव’ (बृ. उ. ४ । ३ । ७) इति च श्रुत्यन्तरात् । ननु प्रत्यक्षविरोध इति चेत् , न, शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसम्भवात् । तिष्ठतु तावदप्रियवेत्तेव न वेति । नाहमत्र भोग्यं पश्यामि । स्वप्नात्मज्ञानेऽपि इष्टं फलं नोपलभे इत्यभिप्रायः । एवमेवैषः तवाभिप्रायेणेति वाक्यशेषः, आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात् । द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति ; तस्मात्पूर्ववत् अस्य अद्यापि प्रतिबन्धकारणमस्तीति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इत्यादिदेश प्रजापतिः । तथा उषितवते क्षपितकल्मषाय आह ॥

स्राम्येण चक्षुरादिगतानवरतसलिलगलनविषयत्वेनेति यावत् । देहदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह –

यदध्यायादाविति ।

न्यायोऽन्वयव्यतिरेकाख्यः ।

एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्देहाभिमानाभावान्न तेन संसृज्यत इत्याह –

तदिहेति ।

स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्क्याऽऽह –

न तावदिति ।

किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह –

न त्विति ।

इति शब्दो द्रष्टव्यमित्यनेन सम्बध्यते ।

देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते –

नास्येति ।

किमयं प्रजापतिमाप्तमनाप्तं वा मन्यते ? यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं सम्भवतीति मत्वाऽऽह –

नैवमिति ।

विकल्पान्तरं प्रत्याह –

प्रजापतिमिति ।

न स्वतो हननं स्वप्नदृशो विवक्षितमिन्द्रस्येति शेषः ।

उक्तमेव स्फोरयति –

एतदिति ।

दृष्टान्तेन शङ्कते –

नन्विति ।

दृष्टान्तं विघटयति –

नैवमिति ।

तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति –

कस्मादित्यादिना ।

एतदेवाऽऽकाङ्क्षापूर्वकं प्रपञ्चयति –

कथमित्यादिना ।

अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानित्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह –

तथेति ।

यथेदं वाक्यमक्ष्युपलक्षितद्रष्टृपरं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विनाशदृष्टिरित्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् ।

इवशब्दमाक्षिपति –

नन्विति ।

वेत्तृत्वं विकारश्चेदमृतत्वं न स्यान्मृदादिवद्विनाशित्वप्रसङ्गात्तस्मादिवशब्दो युक्त इत्युत्तरमाह –

उच्यत इति ।

अहं वेद्मीतिविक्रियाश्रयत्वप्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते –

नन्विति ।

अध्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिद्ध्यतीति परिहरति –

नेत्यादिना ।

नाहमित्यादि वाक्यमवतारयति –

तिष्ठत्विति ।

न वेत्त्यप्रियवेत्तैव भवतीत्यर्थः ।

इष्टं सर्वलोककामावाप्तिलक्षणं विधेये ब्रह्मभावेनाऽऽध्यासिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुनरुद्देशेऽप्यागतमतस्त्वदभिप्रायेणाप्रियवेत्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि –

तवेति ।

तत्र हेतुमाह –

आत्मन इति ।

वसापराणीत्यादिवाक्यतात्पर्यमाह –

द्विरुक्तमपीति ।

तथा प्रजापतिवाक्यानुसारेणेति यावत् ॥२-४॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य दशमः खण्डः ॥