छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
मघवन् मर्त्यं वै मरणधर्मीदं शरीरम् । यन्मन्यसेऽक्ष्याधारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति, शृणु तत्र कारणम् — यदिदं शरीरं वै यत्पश्यसि तदेतत् मर्त्यं विनाशि । तच्च आत्तं मृत्युना ग्रस्तं सततमेव । कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति, यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्ते — इति वैराग्यार्थं विशेष इत्युच्यते — आत्तं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन् निवर्तत इति । शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य मरणादिदेहेन्द्रियमनोधर्मवर्जितस्येत्येतत् ; अमृतस्येत्यनेनैव अशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत् सावयवत्वमूर्तिमत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम् ; आत्मनो वा सत ईक्षितुः तेजोबन्नादिक्रमेण उत्पन्नमधिष्ठानम् ; जीव रूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वा अधिष्ठानम् । यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियवदधिष्ठानम् , तदधिष्ठितः तद्वान् सशरीरो भवति । अशरीरस्वभावस्य आत्मनः तदेवाहं शरीरं शरीरमेव च अहम् — इत्यविवेकादात्मभावः सशरीरत्वम् ; अत एव सशरीरः सन् आत्तः ग्रस्तः प्रियाप्रियाभ्याम् । प्रसिद्धमेतत् । तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्य अपहतिः विनाशः उच्छेदः सन्ततिरूपयोर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न स्पृशतः । स्पृशिः प्रत्येकं सम्बध्यत इति प्रियं न स्पृशति अप्रियं न स्पृशतीति वाक्यद्वयं भवति । ‘न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत’ (गौ. ध. १ । ९ । १७) इति यद्वत् । धर्माधर्मकार्ये हि ते ; अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसम्भवात् तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ॥

कार्यकारणपरिवेष्टितौ विश्वतैजसावुक्तौ कारणमात्रबद्धश्च प्राज्ञो व्याख्यातः संप्रत्यशरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति –

मघवन्निति ।

शरीरवदात्मनोऽपि विनाशित्वमवस्थाविशेषे दर्शितमित्याशङ्क्याऽऽह –

यन्मन्यस इति ।

सशरीरो विशेषविज्ञानवान्भवत्यशरीरस्य तु विशेषविज्ञानाभावाद्विनाशभ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपेणाभिनिष्पद्यत इति संप्रसादस्याविनाशित्ववचनादित्यभिप्रेत्य कारणमेव स्पष्टयन्नक्षराणि व्याचष्टे –

यदिदमित्यादिना ।

ननु मर्त्यमित्येतावतैव मृत्युव्याप्तत्वे शरीरस्य सिद्धे किमित्यात्तं मृत्युनेति पुनरुच्यते तत्राऽऽह –

कदाचिदेवेति ।

वैराग्यार्थं विशेषवचनमित्युक्तं यत्तदेव वैराग्यं किमर्थमित्याशङ्क्याऽऽह –

कथमिति ।

निवर्तने विशेषवचनं फलवदिति शेषः ।

तदस्येत्यत्र तच्छब्दार्थमाह –

शरीरमित्यत्रेति ।

मघवन्नित्यादिवाक्यं सप्तम्यर्थः । त्रिस्थानतया जाग्रत्स्वप्नसुषुप्ताख्यस्थानत्रयसम्बन्धित्वेनेति यावत् । अमृतत्वं षडूर्मिवर्जितत्वम् । अशरीरत्वं स्वाभाविकसावयवत्वादिराहित्यम् । आत्मनोऽधिष्ठानमित्यत्र भोगेत्यपेक्षितपूरणं कृतम् ।

भोक्तृभोगायतनं शरीरमिति विशेषणार्थमुक्त्वा तस्यैवार्थान्तरमाह –

आत्मनो वेति ।

अधिष्ठानं जनयितुस्तस्योपलब्धेरधिकरणमिति यावत् ।

अधिष्ठानशब्दस्यार्थान्तरमाह –

जीवरूपेणेति ।

उत्तरवाक्यस्थं सशरीरशब्दं व्याचष्टे –

यस्येति ।

ईदृशं मर्त्यत्वादिविशेषणवदित्यर्थः । तद्यथोक्तं शरीरमधिष्ठितमनेनेति व्युत्पत्त्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः ।

तस्यैव संपिण्डितमर्थमाह –

तद्वानिति ।

उक्तेऽर्थे विशेषणं पातयति –

सशरीर इति ।

अशरीरस्य कथं सशरीरत्वमित्याशङ्क्याऽऽह –

अशरीरेति ।

अविवेकतः सशरीरो भवतीति पूर्वेण सम्बन्धः । यतः सशरीरोऽत एव प्रियाप्रियाभ्यामात्तो वै पुरुष इति योजना ।

वैशब्दार्थमाह –

प्रसिद्धमिति ।

एतच्छब्दार्थमेवोत्तरवाक्यव्याख्यानेन स्फोरयति –

सशरीरस्येति ।

तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संततिरूपयोरपहतिर्नास्तीति सम्बन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणिकत्वादित्याशङ्क्य संततिरूपयोरित्युक्तम् । इतिशब्दो वाक्यसमाप्त्यर्थः ।

अजस्य देहसम्बन्धद्वारा संसारित्वमुक्त्वा तस्यैव विद्यावतो देहनिवृत्तिद्वारेण मुक्तिं दर्शयति –

तं पुनरिति ।

मुक्ते पुंसि प्रियाप्रिययोर्मिलितयोरस्पर्शेऽप्येकैकस्य स्पर्शः स्यादित्याशङ्क्याऽऽह –

स्पृशिरिति ।

प्रत्येकं सम्बन्धमभिनयति –

प्रियमिति ।

समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासम्बन्धे दृष्टान्तमाह –

नेति ।

प्रियाप्रिययोर्मुक्तात्मन्यसंस्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति –

धर्माधर्मेति ।

तत्रेत्यशरीरताख्यं स्वरूपमुच्यते ।