मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वात्त्याज्यमिति शङ्कते –
नन्विति ।
वाक्ययोर्मिथो विरोधे दृष्टान्तमाह –
यथेति ।
“यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्नतु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्” (बृ.उ. ४ । ३ । २३) इति बृहदारण्यकश्रुतिमाश्रित्य विरोधं धुनीते –
नैष दोष इति ।
अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह –
यद्यपीति ।
सुप्तस्य मोक्षदृष्टान्तत्वात्तद्गतस्य च दार्ष्टान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्यतीत्यर्थः ।
किं च मुक्तमेवाधिकृत्य “यत्र त्वस्य सर्वमात्मैवाभूत्” (बृ.उ. ४ । ५ । १५) इत्यादि तत्रैवोक्तमित्याह –
केनेति ।
फलार्थवादस्याक्षिवाक्यस्य च मिथो विरोधं शङ्कते –
अशरीरेति ।
दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तदयोग्यत्वादशरीरात्मोक्तिर्दृश्यत इति श्रुतिविरुद्धेत्यर्थः ।
आत्मत्वामृतत्वादिब्रह्मविषयानेकश्रुतिलिङ्गविरोधाद्दृश्यत इत्येकस्याःश्रुतेर्ज्ञानमात्रविषयनिरोधोऽस्तीत्यभिप्रेत्यानन्तरवाक्यमुत्थापयति –
तत्रेति ।
चाक्षुषदर्शनाविषयत्वे सति चक्षुषो दर्शने को हेतुरित्यपेक्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः ।
स दृष्टान्तो यथा भवति तथोच्यत इत्याह –
तत्रेति ।
तमेव दृष्टान्तमनूद्य व्याचष्टे –
यथेत्यादिना ।
अध्याहारराहित्यसिद्ध्यर्थं पक्षान्तरमाह –
प्रयोग्येति ।
एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः ।
घ्राणप्राणं व्यावर्तयति –
पञ्चवृत्तिरिति ।
“बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुः” (क.उ. १ । ३ । ३) इति श्रुत्यन्तरमाश्रित्याऽऽह –
इन्द्रियेति ।
आत्मानं रथिनं विद्धीतिश्रुतिविरुद्धं प्राणस्य रथित्वमित्याशङ्क्य तस्योपाधिर्यस्तदभेदाङ्गीकारात्मैवमित्याह –
प्रज्ञात्मेति ।
तस्याध्यात्मसन्तानशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति –
विज्ञानेति ।
ईश्वरस्य यथोक्तप्राणोपाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
प्रतिष्ठास्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः ।
तथा च यथा राज्ञा सर्वाधिकारित्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्यापारनिमित्तं नियुक्तो भवतीत्याह –
राज्ञेति ।
प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमानाद्देहसंहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिद्ध्यतीति समुदायार्थः ।
चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्रथादिचेष्टावदित्यनुमानान्तरं सूचयति –
तस्यैवेति ।
प्रकृतप्राणविषयस्तच्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥३॥