दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्तव्यम् । तत्राऽऽदिशब्देनाभ्रविद्युत्स्तनयित्वनो गृह्यन्ते । आकाशादीत्यादिपदमभ्रादिकारणसंग्रहार्थम् ।
शरीरसाम्यमेव विशिनष्टि –
अहमिति ।
प्रतिबोधनेदृष्टान्तमाह –
प्रजापतिनेति ।
यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् । मघवान्प्रतिबोधित इति सम्बन्धः ।
दार्ष्टन्तिके प्रतिबोधनप्रकारं दर्शयति –
नासीति ।
शरीराद्विदुषः समुत्थाने दृष्टान्तमाह –
आकाशादिवेति ।
समुत्थानं विभजते –
देहादीति ।
पुनरुक्तिं परिहरति –
इति व्याख्यातमिति ।
उत्तरवाक्यस्थं सशब्दं व्याचष्टे –
स येनेति ।
स उत्तमपुरुष इति सम्बन्धः ।
सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्तिं दृष्टान्तेन स्पष्टयति –
प्रागित्यादिना ।
उक्तदृष्टान्तानुसारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्यया प्रकाशितब्रह्मसतत्त्वः स्वेन रूपेणाभिनिष्पन्नो भवतीति दार्ष्टान्तिकमाह –
एवं चेति ।
पुरुषस्योत्तमविशेषणं पुरुषान्तरव्यवच्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति –
अक्षीति ।
इति चत्वारः पुरुषा इतिशेषः ।
तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषत्वमित्याह –
एषामिति ।
यथोक्तोत्तमपुरुषे भगवत्सम्मतिं सङ्गिरते –
कृतेति ।
“द्वाविमौ पुरुषौ लोके क्षरमक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥” (भ. गी. १५ । १६-१८)
इति हि स भगवानूचिवान् ।
स तत्रेत्यादि व्याचष्टे –
स संप्रसाद इति ।
क्वचिदिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते ।
नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति –
स्त्रीपुंसयोरिति ।
तन्न स्मरन्पर्येतीति सम्बन्धः ।
यथोक्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्क्याऽऽह –
तत्स्मरणे हीति ।
विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते –
नन्विति ।
असर्वज्ञत्वदोषं निराकरोति –
नैष दोष इति ।
अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्याविद्याकामकर्ममूलस्याज्ञानमात्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्टत्वात्प्रागपि शरीरादेरनुभवविपरीतवर्तित्वानुपपत्तेरित्यर्थः ।
शरीरादि पूर्वं सम्यग्ज्ञानेनाविषयीकृतमपि सद्भ्रान्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह –
न हीति ।
मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्बध्येरन्नित्याशङ्क्याऽऽह –
ये त्विति ।
किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्क्याऽऽह –
अनृतापिधाना इति ।
इतश्च विदुषामेव तदभिव्यक्तिरित्याह –
विद्येति ।
किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसम्बन्धवचनं तत्राऽऽह –
इत्यात्मज्ञानेति ।
आत्मविद्यास्तुत्यर्थं विदुषि कामसम्बन्धवचनम् ।
मनसैतान्कामान्पश्यन्नित्यत्र विशेषश्रवणमपि युक्तमित्याह –
अत इति ।
इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्क्याऽऽह –
यत्रेति ।