छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रो जातो जीर्णो मरिष्ये — इत्येवंप्रकारं प्रजापतिनेव मघवान् यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन् स एष सम्प्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिविलक्षणमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् , स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् । स येन स्वेन रूपेण सम्प्रसादोऽभिनिष्पद्यते — प्राक्प्रतिबोधात् तद्भ्रान्तिनिमित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते, एवं च स उत्तमपुरुषः उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एव उत्तमपुरुषः । अक्षिस्वप्नपुरुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः सम्प्रसन्नः अशरीरश्च स्वेन रूपेणेति । एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्य उत्तमपुरुषः ; कृतनिर्वचनो हि अयं गीतासु । सः सम्प्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान् उच्चावचान् ईप्सितान् क्वचिन्मनोमात्रैः सङ्कल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन् स्त्र्यादिभिः रममाणश्च मनसैव, नोपजनम् , स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आत्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम् , तन्न स्मरन् । तत्स्मरणे हि दुःखमेव स्यात् , दुःखात्मकत्वात् तस्य । नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैष दोषः । येन मिथ्याज्ञानादिना जनितम् तच्च मिथ्याज्ञानादि विद्यया उच्छेदितम् , अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः । न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपगमेऽपि स्मर्तव्यं स्यात् ; तथेहापि संसारिभिरविद्यादोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अविद्यानिमित्ताभावात् । ये तु उच्छिन्नदोषैर्मृदितकषायैः मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात् , त एव मुक्तेन सर्वात्मभूतेन सम्बध्यन्त इति आत्मज्ञानस्तुतये निर्दिश्यन्ते ; अतः साध्वेतद्विशिनष्टि — ‘य एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ॥

दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –

यथेति ।

वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्तव्यम् । तत्राऽऽदिशब्देनाभ्रविद्युत्स्तनयित्वनो गृह्यन्ते । आकाशादीत्यादिपदमभ्रादिकारणसंग्रहार्थम् ।

शरीरसाम्यमेव विशिनष्टि –

अहमिति ।

प्रतिबोधनेदृष्टान्तमाह –

प्रजापतिनेति ।

यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् । मघवान्प्रतिबोधित इति सम्बन्धः ।

दार्ष्टन्तिके प्रतिबोधनप्रकारं दर्शयति –

नासीति ।

शरीराद्विदुषः समुत्थाने दृष्टान्तमाह –

आकाशादिवेति ।

समुत्थानं विभजते –

देहादीति ।

पुनरुक्तिं परिहरति –

इति व्याख्यातमिति ।

उत्तरवाक्यस्थं सशब्दं व्याचष्टे –

स येनेति ।

स उत्तमपुरुष इति सम्बन्धः ।

सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्तिं दृष्टान्तेन स्पष्टयति –

प्रागित्यादिना ।

उक्तदृष्टान्तानुसारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्यया प्रकाशितब्रह्मसतत्त्वः स्वेन रूपेणाभिनिष्पन्नो भवतीति दार्ष्टान्तिकमाह –

एवं चेति ।

पुरुषस्योत्तमविशेषणं पुरुषान्तरव्यवच्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति –

अक्षीति ।

इति चत्वारः पुरुषा इतिशेषः ।

तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषत्वमित्याह –

एषामिति ।

स तत्रेत्यादि व्याचष्टे –

स संप्रसाद इति ।

क्वचिदिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते ।

नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति –

स्त्रीपुंसयोरिति ।

तन्न स्मरन्पर्येतीति सम्बन्धः ।

यथोक्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्क्याऽऽह –

तत्स्मरणे हीति ।

विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते –

नन्विति ।

असर्वज्ञत्वदोषं निराकरोति –

नैष दोष इति ।

अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्याविद्याकामकर्ममूलस्याज्ञानमात्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्टत्वात्प्रागपि शरीरादेरनुभवविपरीतवर्तित्वानुपपत्तेरित्यर्थः ।

शरीरादि पूर्वं सम्यग्ज्ञानेनाविषयीकृतमपि सद्भ्रान्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह –

न हीति ।

मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्बध्येरन्नित्याशङ्क्याऽऽह –

ये त्विति ।

किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्क्याऽऽह –

अनृतापिधाना इति ।

इतश्च विदुषामेव तदभिव्यक्तिरित्याह –

विद्येति ।

किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसम्बन्धवचनं तत्राऽऽह –

इत्यात्मज्ञानेति ।

आत्मविद्यास्तुत्यर्थं विदुषि कामसम्बन्धवचनम् ।

मनसैतान्कामान्पश्यन्नित्यत्र विशेषश्रवणमपि युक्तमित्याह –

अत इति ।

इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्क्याऽऽह –

यत्रेति ।