छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्रं इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १ ॥
श्यामात् शबलं प्रपद्ये इत्यादिमन्त्राम्नायः पावनः जपार्थश्च ध्यानार्थो वा । श्यामः गम्भीरो वर्णः श्याम इव श्यामः हार्दं ब्रह्म अत्यन्तदुरवगाह्यत्वात् तत् हार्दं ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामात् शबलं शबल इव शबलः अरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्यं तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छेयम् । यस्मादहं शबलाद्ब्रह्मलोकात् नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः । अतः तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः । कथं शबलं ब्रह्मलोकं प्रपद्ये इति, उच्यते — अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो भवति, एवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माख्यं चन्द्र इव च राहुग्रस्तः तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति यथा — एवं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रयम् इहैव ध्यानेन कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभिसम्भवामीति । द्विर्वचनं मन्‍त्रसमाप्त्यर्थम् ॥

दहरविद्याप्रकरणे निर्विशेषं ब्रह्म उपास्यस्तुत्यर्थं प्रसङ्गादुक्तं तत्प्रकरणपरिसमाप्त्यर्थं प्रकृताया दहरविद्यायाः शेषभूतजपविधानार्थमारभते –

श्यामादिति ।

अत्यन्तदुरवगाह्यत्वाद्ध्यानहीनानामिति शेषः ।

कथं जीवतो ब्रह्मलोकप्राप्तिरित्याशङ्क्याऽऽह –

मनसेति ।

न तर्हि मुख्या तत्प्राप्तिरित्याशङ्क्याऽऽह –

शरीरेति ।

विपरीतपाठं हेतुत्वेनेति व्याचष्टे –

यस्मादिति ।

हेतुः प्रतिज्ञया योज्यते –

अत इति ।

दृष्टान्तमाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –

कथमित्यादिना ।

शरीरस्य त्याज्यत्वे हेतुमाह –

सर्वानर्थेति ।

इतिशब्दो ध्यानसमाप्त्यर्थो दहरोऽस्मिन्नन्तराकाश इति ॥१॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य त्रयोदशः खण्डः ॥