छान्दोग्योपनिषद्भाष्यम्
अष्टमोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतꣳ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्कꣳ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ १ ॥
आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थम् आध्यानाय । आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा । आकाश इव अशरीरत्वात्सूक्ष्मत्वाच्च । स च आकाशः नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोः निर्वहिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्रह्मणो अन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत् , तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढृ एवंलक्षणं ब्रह्मेत्यर्थः । इदमेव मैत्रेयीब्राह्मणेनोक्तम् ; चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते एकवाक्यता । कथं तदवगम्यत इति, आह — स आत्मा । आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धः तेनैव स्वरूपेणोन्नीय अशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम् । तच्च आत्मा ब्रह्म अमृतम् अमरणधर्मा । अत ऊर्ध्वं मन्‍त्रः । प्रजापतिः चतुर्मुखः तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् । किञ्च यशोऽहं यशो नाम आत्मा अहं भवामि ब्राह्मणानाम् । ब्राह्मणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि । तथा राज्ञां विशां च । तेऽप्यधिकृता एवेति तेषामप्यात्मा भवामि । तद्यशोऽहमनुप्रापत्सि अनुप्राप्तुमिच्छामि । स ह अहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा । किमर्थमहमेवं प्रपद्य इति, उच्यते — श्येतं वर्णतः पक्वबदरसमं रोहितम् । तथा अदत्कं दन्तरहितमप्यदत्कं भक्षयितृ स्त्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणाम् अपहन्तृ विनाशयित्रित्येतत् । यदेवंलक्षणं श्येतं लिन्दु पिच्छलं तन्मा अभिगां मा अभिगच्छेयम् । द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम् ॥

आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह –

आकाश इवेति ।

ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्यर्थमादाय व्याचष्टे –

तयोर्वेति ।

यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति –

नामरूपाभ्यामिति ।

ताभ्यामस्पृष्टं चेत्कथं तन्निर्वाहकमित्याशङ्क्याऽऽह –

नामरूपाभ्यामस्पृष्टमिति ।

मायावशादिति शेषः ।

आत्मत्वेऽपि कथं करतलामलकवद्ब्रह्मणोऽपरोक्षत्वमत आह –

आत्मा हीति ।

तेन स्वसंवेद्यत्वेनेति यावत् ।

कुतो देहद्वयोपहितस्याऽऽत्मनः स्वसंवेद्यत्व तत्राऽऽह –

अशरीर इति ।

परिच्छिन्नस्याशरीरत्वमयुक्तमित्याशङ्क्याऽऽह –

व्योमवदिति ।

ब्रह्मैव प्रत्यक्षभूतमिति कथमवगतमित्याशङ्क्याऽऽह –

आत्मेति ।

अनात्मत्वं चेदब्रह्मत्वप्रसङ्गात्प्रत्यग्भूतं ब्रह्म वक्तव्यमित्यर्थः ।

उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थनामन्त्रमुत्थाप्य व्याकरोति –

अत ऊर्ध्वमिति ।

प्रथमतो ब्राह्मणग्रहणे हेतुमाह –

ब्राह्मणा एवेति ।

विशेष्यं निर्दिशति –

स्त्रीव्यञ्जनमिति ।

योनिशब्दितं प्रजननेन्द्रियमित्यर्थः ।

कथं तद्भक्षयितृ भवेत्तदाह –

तत्सेविनामिति ।

]

तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विर्वचनमित्यर्थः ॥१॥

॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्दशः खण्डः॥