लक्षणनिर्देशस्य प्रकृतोपयोगं दर्शयति –
आध्यानायेति ।
“सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशा ह्येवेभ्यो ज्यायान्” (छा. उ. १ । ९ । १) इत्याद्याः श्रुतयः ।
आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह –
आकाश इवेति ।
ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्यर्थमादाय व्याचष्टे –
तयोर्वेति ।
यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति –
नामरूपाभ्यामिति ।
ताभ्यामस्पृष्टं चेत्कथं तन्निर्वाहकमित्याशङ्क्याऽऽह –
नामरूपाभ्यामस्पृष्टमिति ।
मायावशादिति शेषः ।
आत्मत्वेऽपि कथं करतलामलकवद्ब्रह्मणोऽपरोक्षत्वमत आह –
आत्मा हीति ।
तेन स्वसंवेद्यत्वेनेति यावत् ।
कुतो देहद्वयोपहितस्याऽऽत्मनः स्वसंवेद्यत्व तत्राऽऽह –
अशरीर इति ।
परिच्छिन्नस्याशरीरत्वमयुक्तमित्याशङ्क्याऽऽह –
व्योमवदिति ।
ब्रह्मैव प्रत्यक्षभूतमिति कथमवगतमित्याशङ्क्याऽऽह –
आत्मेति ।
अनात्मत्वं चेदब्रह्मत्वप्रसङ्गात्प्रत्यग्भूतं ब्रह्म वक्तव्यमित्यर्थः ।
उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थनामन्त्रमुत्थाप्य व्याकरोति –
अत ऊर्ध्वमिति ।
प्रथमतो ब्राह्मणग्रहणे हेतुमाह –
ब्राह्मणा एवेति ।
विशेष्यं निर्दिशति –
स्त्रीव्यञ्जनमिति ।
योनिशब्दितं प्रजननेन्द्रियमित्यर्थः ।
कथं तद्भक्षयितृ भवेत्तदाह –
तत्सेविनामिति ।
]तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विर्वचनमित्यर्थः ॥१॥