उक्तविज्ञानस्यौत्प्रेक्षिकत्वशङ्कां व्युदस्यन्ननादिपारम्पर्यागतत्वं दर्शयति –
तद्धैतदिति ।
सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्द्वारेण हिरण्यगर्भद्वारेणेत्यर्थः ।
विद्याप्रकरणं समाप्याविद्वदनुष्ठितस्य कर्मणः साफल्यमविद्वत्संतोषार्थं कथयति –
यथेत्यादिना ।
इहेति प्रकृतोपनिषदुक्तिः । प्राङ्मुखत्वपवित्रपाणित्वादयो नियमाः । भिक्षाशनस्नानाचमनादिर्विधिः ।
किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह –
एवं हीति ।
तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वं स्वयं कुर्वन्ब्रह्मलोकमभिसम्पद्यत इति सम्बन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति ।
अप्राप्तप्रतिषेधाशङ्कां वारयति –
पुनरावृत्तेरिति ।
चन्द्रलोकादिवद्ब्रह्मलोकादपि प्राप्ता पुनरावृत्तिस्तस्या न चेत्यादिना प्रतिषेधान्नाप्राप्तप्रतिषेधप्रसक्तिरित्यर्थः ।
अपुनरावृत्तिवाक्यस्थान्यक्षराणि व्याकरोति –
अर्चिरादिनेति ।
प्रागिति महाप्रलयात्पूर्वकालोक्तिः । ततो ब्रह्मलोकादित्यर्थः ॥१॥
वियदादिजगज्जातं जातमज्ञानतो यतः । तदस्मि नामरूपादिविरहि ब्रह्म निर्भयम् ॥१॥
नमस्त्र्यय्यन्तसंदोहसरसीरुहभानवे । गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥