श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् , स्वमायया देहवानिव जात इव लोकानुग्रहं कुर्वन् लक्ष्यतेस्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीतितं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध
भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नः त्रिगुणात्मिकां स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् , स्वमायया देहवानिव जात इव लोकानुग्रहं कुर्वन् लक्ष्यतेस्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीतितं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध

नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह –

स चेति ।

ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः ।

अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह –

त्रिगुणात्मिकामिति ।

सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् ।

ईश्वरपारवश्यं तस्या दर्शयति –

स्वामिति ।

तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह –

मायामिति ।

तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति –

मूलप्रकृतिमिति ।

ईश्वरस्य प्रकृत्यधीनत्वं वारयति –

वशीकृत्येति ।

नित्यशुद्धबुद्धमुक्त

नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् ।

न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह –

स्वभाव इति ।

स्वमायया ।

देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् ।

इव जात इव

इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते ।

लोकानुग्रहमिति

धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।

ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह –

स्वप्रयोजनेति ।

कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः ।

अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि –

शोकेति ।

ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह –

गुणाधिकैरिति ।

प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः ।

अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह –

तं धर्ममिति ।

अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह –

सर्वज्ञ इति ।

‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह –

भगवानिति ।