गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति –
तदिदमिति ।
पौरुषेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यमिति मत्वा विशिनष्टि –
समस्तेति ।
शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह –
दुर्विज्ञेयार्थमिति ।
‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥' इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात् , तत्राह –
तदर्थेति ।
गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशः, तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः समुच्चयवादिभिर्विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः ।
येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह –
विवेकत इति ।
पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थोपन्यासः सङ्कीर्णवद्भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसम्प्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरतीत्यर्थः । किञ्च अनपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह –
सङ्क्षेपत इति ।