ननु अनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्क्य सर्वव्यापाराणां प्रयोजनार्थत्वादादौ प्रयोजनमाह –
तस्येति ।
प्रसाधितप्रामाण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पिण्डितत्वमेकवाक्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्रतत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते ।
निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च । तत्राद्यमुदाहरति –
परमिति ।
द्वितीयं दर्शयति –
सहेतुकस्येति ।
संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम् । तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम् । तदेव साधयितुं सहेतुकस्येत्युक्तम् ।
उक्तं फलं समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्क्याभिधेयमभिधित्समानः समाधत्ते –
तच्चेति ।
आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठा अत्रोच्यते । प्राधान्येन त्वात्मज्ञाननिष्ठैवात्र प्रतिपाद्यत इत्यर्थः ।
ननु शेषिणी निष्ठा कुतो भवति संन्यासात् ? न कर्मनिष्ठायाः शेषत्वात् तत्राह –
सर्वेति ।
संन्यासद्वारेणासकृदनुष्ठितश्रवणादेः शेषिणी निष्ठा सिद्ध्यति, शेषत्वं च कर्मणः, तत्र परस्पराश्रयत्वमित्यर्थः ।
ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ [भ. गी. १८.५] इति वाक्यशेषात् समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह –
तथेति ।
सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं निःश्रेयसप्रयोजनं प्रागुक्तं परामृशति –
इममेवेति ।
वक्तृभेदादभिप्रायभेदाशङ्कां वारयति –
भगवतैवेति ।
उक्तमनुगीतास्विति सम्बन्धः ।
ब्रह्मणः पदं
ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्वयाख्यानावसरे तात्पर्यं वक्ष्यते ।
कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति –
तत्रैवेति ।
धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह –
नैवेति ।
क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह –
यः स्यादिति ।
वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते । किञ्चिदचिन्तयन् इत्यन्तःकरणव्यापाराभावोऽभिप्रेतः । द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः ।
न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह –
इहापीति ।
नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यसमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ’ [भ. गी. ४.१५] इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह –
अभ्युदयार्थोऽपीति ।
ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह –
स देवादीति ।
फलाभिसन्धिद्वारा कृतः सन्निति शेषः ।
प्रवृत्तिलक्षणधर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह –
शुद्धेति ।
प्रतिपद्यते प्रागुक्तो धर्म इति शेषः ।
यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यषेषमनुकूलयति –
तथा चेति ।