तत्रैषाऽक्षरयोजना -
धृतराष्ट्र उवाचेति ।
धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन् अभ्याशवर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति -
धर्मक्षेत्र इति ।
धर्मस्य तद्बुद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति, तत्र समवेताः सङ्गताः, युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ सङ्गता भूत्वा किं कृतवन्तः ॥ १ ॥