राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति -
अपर्याप्तमिति ।
अस्माकं खल्विदं एकादशसङ्ख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं - परोषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं - सप्तसङ्ख्याकाक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितं अपर्याप्तम् - अस्मानभिभवितुमसमर्थमित्यर्थः । अथवा - तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तं - अपरिमितं अधृष्यं - अक्षोभ्यम् । एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं - अपरिमितम् सोढुं शक्यमित्यर्थः । अथवा - तत् पाण्डवानां बलमपर्याप्तं - नालम् , अस्माकं - अस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते । इदं पुनरस्मदीयं बलमेतेषां - पाण्डवानां पर्याप्तं - परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितः । तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः ॥ १० ॥