दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति -
अथेत्यादिना ।
भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद् व्यवस्थितान् अप्रचलितानेव परान् प्रत्यक्षेणोपलभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेन आदायावस्थितोऽर्जुनो भगवन्तमाहेति सम्बन्धः ।
किमाहेत्यपेक्षायामिदं - वक्ष्यमाणं हेतुमद्वचनमित्याह -
वाक्यमिदमिति ।
कस्यामवस्थायामिदमुक्तवानिति तत्राह -
प्रवृत्त इति ।
शस्त्राणां - इषुप्रासप्रभृतीनां सम्पातः - समुदायः तस्मिन् प्रवृत्ते - प्रयोगाभिमुखे सतीति यावत् ।
किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह –
धनुरिति ।
महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते ॥ २० ॥