तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति -
सेनयोरिति ।
उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते । किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति ? युक्तं हि भगवतो भक्तपारवश्यम् । अच्युतेति सम्बोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते ॥ २१ ॥