एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य सम्प्रवृत्तेति कथयति -
तत्रेत्यादिना ।
सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय सम्प्रवृत्ते सतीत्येतदुच्यते । सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः । अथशब्दः तथाशब्दपर्यायः । श्वशुराः भार्याणां जनयितारः । सुहृदो मित्राणि कृतवर्मप्रभृतयः ॥ २६ ॥