परेषामिव अस्माकमपि प्रवृत्तिविस्रम्भः सम्भवेदिति चेत् , नेत्याह –
कथमिति ।
कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिः तद्दोषशब्दितं पापं कथं न ज्ञातव्यम् ? तदज्ञाने तत्परिहारासम्भवात् । अतोऽस्मात् पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः ॥ ३९ ॥