कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते ? तत्राह –
कुलेति ।
कुलस्य हि क्षये कुलसम्बन्धिनः चिरन्तना धर्माः तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति । कर्तुरभावादित्यर्थः ।
धर्मनाशेऽपि किं स्यात् इति चेत् , तत्राह -
धर्म इति ।
कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति । अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः ॥ ४० ॥