यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान् । तमेव प्रवेदनप्रकारं दर्शयति -
एवमिति ।
प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन् अर्जुनः सङ्ख्ये - युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’ (भ. भ. गी. २-९) इति ब्रुवन् , मध्ये रथस्य, संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः ॥ ४७ ॥