यत् तावत् ‘ब्रह्मज्ञानं सेतिकर्तव्यताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति -
तदसदिति ।
न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः ।
यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह -
ज्ञानेति ।
साङ्ख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम् । तत्र साङ्ख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्यशब्दार्थमाह -
अशोच्यानित्यादिनेति ।
‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्यमित्यर्थः ।
साङ्ख्यशब्दार्थमुक्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति -
तद्विषयेति ।
तद्विषया बुद्धिः साङ्ख्यबुद्धिरिति सम्बन्धः ।
तामेव प्रकटयति -
आत्मन इति ।
‘न जायते म्रियते वा’ (भ. भ. गी. २-२०) इत्यादिप्रकरणार्थनिरूपणद्वारेण आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसाविति या बुद्धिरुत्पद्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः ।
सम्प्रति योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह -
एतस्या इति ।
यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्यास्तन्निवर्तकत्वात् पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः ।
अथ योगबुद्धिं विभजन् योगिनो विभजते -
तद्विषयेति ।
उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति -
तथा चेति ।
साङ्ख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमतमित्याह -
तयोश्चेति ।
ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादात्म्यमापद्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’ (भ. भ. गी. ३-३) इत्येतद्वाक्यमुक्तार्थविषयमर्थतोऽनुवदति -
पुरेति ।
योगबुद्ध्याश्रया कर्मनिष्ठेत्यत्रापि भगवदनुमतिमादर्शयति -
तथा चेति ।
कर्मैव योगः कर्मयोगः । तेन हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्मयोगेनेत्यादिना वक्ष्यति भगवानिति योजना ।
निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति -
एवमिति ।
कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् ? इत्याशङ्क्याह -
ज्ञानकर्मणोरिति ।
कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम् । तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयोर्विभागवचनमित्यर्थः ।
भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति-
यथेति ।
तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति -
एतमेवेति ।
प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्चमलकारस्वीकारेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’ (बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः ।
ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक्यान्तरसिद्धत्वात् , इत्याशङ्क्य, विदुषां प्रजासाध्यमनुष्यलोकस्य आत्मव्यतिरेकेणाभावात् , आत्मनश्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाह -
येषामिति ।
इति ज्ञानं दर्शितमिति शेषः ।
तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति -
तत्रैवेति ।
प्राकृतत्वम् - अतत्त्वदर्शित्वेनाज्ञत्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः ।
वित्तं विभजते -
द्विप्रकारमिति ।
तदेव प्रकारद्वैरूप्यमाह -
मानुषमिति ।
मानुषं वित्तं व्याचष्टे -
कर्मरूपमिति ।
तस्य फलपर्यवसायित्वमाह -
पितृलोकेति ।
दैवं वित्तं विभजते -
विद्यां चेति ।
तस्यापि फलनिष्ठत्वमाह -
देवेति ।
कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह -
अविद्येति ।
अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’ (बृ. उ. १-४-१७) इत्यादिना दर्शितानीत्यर्थः ।
ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति -
तेभ्य इति ।
कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः ।
अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते ? यदि प्रथमस्तत्राह -
तदेतदिति ।