सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्तिकृतामभिप्रेतं निरसितुमनुवदति -
अत्रेति।
निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते ।
तेषामुक्तिमेव विवृण्वन् आदौ सैद्धान्तिकमभ्युपगमं प्रत्यादिशति -
सर्वकर्मेति ।
वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् ।
अभ्याससम्बन्धं धुनीते -
केवलादिति ।
नैवेत्येवकारः सम्बध्यते ।
केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणम् ? इत्याशङ्क्याह -
किं तर्हीति ।
किं तत्र प्रमापकम् ? इत्याशङ्क्य, इदमेव शास्रमित्याह -
इति सर्वास्विति ।
यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं करणत्वाद् दर्शपौर्णमासादिवत् । तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः ।
इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वापर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह -
ज्ञापकं चेति ।
न केवलं ज्ञानं मुक्तिहेतुः, अपितु समुच्चितमित्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः ।
शास्त्रस्य समुच्चयपरत्वे लिङ्गवद्वाक्यमपि प्रमाणमित्याह -
कर्मण्येवेति ।
तत्रैव वाक्यान्तरमुदाहरति -
कुरु कर्मेति ।
ननु - ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्यमतमाशङ्क्य परिहरति -
हिंसादीति ।
आदिशब्दादुच्छिष्टभक्षणं गृह्यते ।
यथोक्ता शङ्का न कर्तव्येत्यत्र आकाङ्क्षापूर्वकं हेतुमाह -
कथमित्यादिना ।
स्वशब्देन क्षत्रियो विवक्ष्यते ।
युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् तस्य तं प्रति नित्यत्वेन अवश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म न अधर्मायेति हेत्वन्तरमाह -
तदकरणे चेति ।
आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् क्रतुविषये चोदितहिंसायास्तदविषयत्वात् कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुं इतिशब्दः ।