श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अत्र दृष्ट्वा तु पाण्डवानीकम्’ (भ. गी. १ । २) इत्यारभ्य यावत् योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ’ (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थःतथाहिअर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषुअहमेतेषाम्’ ‘ममैतेइत्येवंप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ कथं भीष्ममहं सङ्‍ख्ये’ (भ. गी. २ । ४) इत्यादिनाशोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं भिक्षाजीवनादिकं कर्तुं प्रववृतेतथा सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा स्यात्स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा भवतितत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःख़ादिप्राप्तिलक्षणः संसारः अनुपरतो भवतिइत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवःअशोच्यान्’ (भ. गी. २ । ११) इत्यादि

अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक्यविभागमवगमयति -

दृष्ट्वा त्विति ।

‘धर्मक्षेत्रे कुरुक्षेत्रे’ (भ. भ. गी. १-१) इत्यादिराद्यश्लोकस्तावदेकं वाक्यम् । शास्रस्य कथासम्बन्धपरत्वेन पर्यवसानात् । ‘दृष्ट्वा’ (भ. भ. गी. १-२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’ (भ. भ. गी. २-९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’ (भ. भ. गी. २-१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः ।

ननु - आद्यश्लोकस्य युक्तमेकवाक्यत्वम् , प्रकृतशास्रस्य महाभारतेऽवतारावद्योतित्वात् , अन्तिमस्यापि सम्भवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथमेकवाक्यत्वमित्याशङ्क्यार्थैकत्वादित्याह -

प्राणिनामिति ।

शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदिशब्दस्तदवान्तरभेदार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्रदर्शनार्थत्वेनेति योजना ।

सङ्गृहीतमर्थं विवृणोति -

तथा हीति ।

राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते । उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशुरस्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः । परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चैतेषामुपघाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतौ संसारबीजभूतौ ‘कथम् ? ‘ (भ. गी. २. ४) इत्यादिना दर्शितावित्यर्थः ।

कथं पुनरनयोः संसारबीजयोरर्जुने सम्भावनोपपद्यते ? न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू सम्भावितावित्याशङ्क्य, विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वादनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह

शोकमोहाभ्यामिति ।

भिक्षया जीवनं  प्राणधारणम् । आदिशब्दात् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यमात्माभिध्यानमित्यादि गृह्यते ।

किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्मदादिनिष्ठशोकमोहवत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्यानुमातव्यमित्याह -

तथा चेति ।

शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते । स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः ।

अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणाद्यभावात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह -

स्वधर्म इति

कायादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृत्वभोक्तृत्वाभिमानः - अहङ्कारः ।

प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति ? तत्राह -

तत्रेति ।

शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशुभकर्मानुष्ठानेन अधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः ।

अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्वमुपपादितमुपसंहरति -

इत्यत इति ।

तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसारबीजप्रदर्शनपरत्वं दर्शयित्वा, वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति -

तयोश्चेति ।

तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः ।

सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येवोपदेशात् , इत्याशङ्क्याह -

अर्जुनमिति ।

न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् - बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम् -

निमित्तीकृत्येति ।