तमर्जुनं सेनयोर्वाहिन्योरुभयोर्मध्ये विषीदन्तं - विषादं कुर्वन्तमतिदुःखितं शोकमोहाभ्यामभिभूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव - उपहासं कुर्वन्निव, तदाश्वासार्थं हे भारत - भरतान्वय ! इत्येवं सम्बोध्य, भगवानिदं - प्रश्नोत्तरं निःश्रेयसाधिगमसाधनं वचनमूचिवानित्याह -
तमुवाचेति
॥ १० ॥