श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किञ्चयदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि उक्त एवेति, यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’ (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ? हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति

इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्चमादावर्जुनस्य प्रश्नानुपपत्तेरित्याह -

किञ्चेति ।

ननु - सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशङ्क्याह -

यदीति ।

एतयोः - कर्मतत्त्यागयोरिति यावत् ।

ननु - कर्मापेक्षया कर्मत्यागपूर्वकस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्विषयप्रश्नोपपत्तिरिति चेत् , नेत्याह -

न हीति ।

तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः ।