श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम्मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसिइति तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते’ (भ. गी. ३ । ३) इति वक्तुं युक्तम्

समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते -

अथेति ।

अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे -

तथापीति ।

भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः ।

प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति -

मयेति ।

व्यावर्त्यमंशमादर्शयति -

न त्विति ।

प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति -

पृष्टादिति ।