श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो केनचिद्दर्शयितुं शक्यःयस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम्एकमेवेदं सर्वं ब्रह्म अकर्तृ इति, तस्य कर्मणि कर्मप्रयोजने निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते तत्कर्म येन बुद्धेः समुच्चयः स्यात् ; यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषःतत्त्वविन्नाहं करोमीति मन्यते, तत्फलमभिसन्धत्तेयथा स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि तत्काम्यमग्निहोत्रादि भवतितथा दर्शयति भगवान्कुर्वन्नपि लिप्यते’ (भ. गी. ५ । ७) करोति लिप्यते’ (भ. गी. १३ । ३१) इति तत्र तत्र

समुच्चयपक्षे प्रश्नप्रतिवचनयोरसम्भवात् नेदं गीताशास्त्रं तत्परमित्युपसंहरति -

तस्मादिति ।

विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वात् , रज्ज्वादितत्त्वज्ञानवत् । अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते, अज्ञानात्मकत्वात् , रज्जुसर्पादिवदिति भावः ।

ननु - ‘कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्’ (भ. भ. गी. ३-२५) इति वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति ? तत्राह -

यस्य त्विति ।

चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वात् , व्यापारमात्रस्य तथात्वाभावात् तत्त्वविदश्च वर्णाश्रमाभिमानशून्यस्य अधिकारप्रतिपत्त्यभावात् , यागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् , ‘कुर्याद्विद्वान्’ (भ. भ. गी. ३-२५)  इत्यादिवाक्यं न समुच्चयप्रापकमिति भावः । वाशब्दश्चार्थे । द्वितीयस्तु विविदिषावाक्यस्थसाधनान्तरसङ्ग्रहार्थः ।

सांसारिकं ज्ञानं व्यावर्तयति -

परमार्थेति ।

तदेवाभिनयति -

एकमिति ।

प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदर्शनार्थम् । कर्माभाससमुच्चयस्तु यादृच्छिकत्वात् न मोक्षं फलयतीति शेषः ।

किञ्च, ज्ञानिनो यागादिप्रवृत्तिर्न ज्ञानेन तत्फलेन समुच्चीयते, फलाभिसन्धिविकलप्रवृत्तित्वात् अहङ्कारविधुरप्रवृत्तित्वाद्वा भगवत्प्रवृत्तिवदित्याह -

यथेति ।

हेतुद्वयस्यासिद्धिमाशङ्क्य परिहरति -

तत्त्वविदिति ।

कूटस्थं ब्रह्मैवाहमिति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वायोगात् । किन्तु कार्यकरणसङ्घातगतत्वेनैव प्रवृत्त्यादि प्रतिपद्यते । ततस्तत्त्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य तृप्त्यादिफलाभिसन्धेश्च आभासत्वात् नासिद्धं हेतुद्वयमित्यर्थः ।

ननु - ज्ञानोदयात् प्रागवस्थायामिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्शनात् न तत्त्वदर्शिनिष्ठप्रवृत्त्यादेराभासत्वमिति, तत्राह -

यथा चेति ।

स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः - स्वर्गादिकामस्य अग्निहोत्रादेरपेक्षितस्वर्गादिसाधनस्यानुष्ठानार्थमग्निमाधाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्य अर्धकृते केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् , कामोपबन्धानुपबन्धकृतत्वात् । तथा विदुषोऽपि विध्यधिकाराभावात् यागादिप्रवृत्तीनां कर्माभासतेत्यर्थः ।

विद्वत्प्रवृत्तीनां कर्माभासत्वमित्यत्र भगवदनुमतिमुपन्यस्यति -

तथा चेति ।