श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः कर्मसमुच्चितात् , इति निश्चितोऽर्थःयथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः कर्मसमुच्चितात् , इति निश्चितोऽर्थःयथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः

तत्त्वज्ञानोत्तरकालं कर्मासम्भवे फलितमुपसंहरति -

तस्मादिति ।

ननु - यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमेकं वाक्यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तदङ्गमङ्गीकर्तव्यम् , प्रकरणप्रामाण्यात् इति समुच्चयसिद्धिः, तत्राह -

यथा चेति ।

अर्थशब्देन आत्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते ।