श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह
तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह

वृत्तिकृतामभिप्रायं प्रत्याख्याय, स्वाभिप्रेतः शास्त्रार्थः समर्थितः । सम्प्रति ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यस्मात् प्राक्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यार्थमनूद्य ‘अशोच्यान्’ इत्यादेः ‘स्वधर्ममपि चावेक्ष्य’ (भ. भ. गी. २-३१) इत्येतदन्तस्य समुदायस्य तात्पर्यमाह -

तत्रेति ।

अत्र हि शास्त्रे त्रीणि काण्डानि । अष्टादशसङ्ख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात् । तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति । मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति । अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक्यं वाक्यार्थमधिकरोति । तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य तदधीनत्वात् । तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम् । एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत् । धर्मे संमूढं - कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानं आत्मज्ञानं, तदतिरेकेणोद्धरणासिद्धेः तं अतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनमवतारयन् - पदार्थपरिशोधने प्रवर्तयन् , आदौ त्वम्पदार्थं शोधयितुमशोच्यानित्यादिवाक्यमाहेति योजना ।