तदेव वचनमुदाहरति -
श्रीभगवानिति ।
यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह -
अशोच्यानित्यादीति ।
यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) इत्याद्यात्मयाथात्म्यदर्शनविधिवाक्यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्पनाहेत्वभावात् । न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते । कृत्यान्तर्भूतस्यार्हार्थत्वात् । तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे -
न शोच्या इति ।
कथं तेषामशोच्यत्वमित्युक्ते भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति -
सद्वृत्तत्वादिति ।
ये भीष्मादिशब्दैरुच्यन्ते, ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वात् न शोच्यतामश्नुवीरन्नित्यर्थः ।
द्वितीयं प्रत्याह -
परमार्थेति ।
अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह -
तानिति ।
अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति -
ते म्रियन्त इति ।
पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते । इत्यनुशोचितवानसीति सम्बन्धः ।
विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति -
प्रज्ञावतामिति ।
वचनानि - ‘उत्सन्नकुलधर्माणाम्’ (भ. भ. गी. १-४४) इत्यादीनि ।
किमेतावता फलितमिति तदाह -
तदेतदिति ।
तत् मौढ्यं - अशोच्येषु शोच्यदृष्टित्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् ।
अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह -
यस्मादिति ।
ननु - सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह -
ते हीति ।
पाण्डित्यं - पण्डितभावमात्मज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’ (बृ. उ. ३-५-१) इति बृहदारण्यकश्रुतिमुक्तर्थामुदाहरति -
पाण्डित्यमिति ।
यथोक्तपाण्डित्यराहित्यं कथं ममावगतमित्याशङ्क्य, कार्यदर्शनादित्याह -
परमार्थतस्त्विति ।
यस्मादित्यस्यापेक्षितं दर्शयति -
अत इति
॥ ११ ॥