समधिगतसंसारदोषजातस्य अतितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्य आत्मोपदेशसङ्ग्रहणेऽधिकारं सूचयति -
कार्पण्येति ।
योऽल्पां - स्वल्पामपि स्वक्षतिं न क्षमते स कृपणः । तद्विधत्वात् , अखिलोऽनात्मवित् अप्राप्तपरमपुरुषार्थतया कृपणो भवति । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणः’ (बृ. उ. ३-८-१०) इति श्रुतेः । तस्य भावः कार्पण्यं - दैन्यं, तेन दोषेणोपहतः - दूषितः स्वभावः - चित्तमस्येति विग्रहः सोऽहं पृच्छामि - अनुयुञ्जे, त्वा - त्वाम् । धर्मसम्मूढचेताः - धर्मो धारयतीति परं ब्रह्म, तस्मिन् संमूढं - अविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः । किं पृच्छसि ? यन्निश्चितमैकान्तिकमनापेक्षिकं श्रेयः स्यात् , न रोगनिवृत्तिवदनैकान्तिकमनात्यन्तिकम् , स्वर्गवदापेक्षिकं वा, तन्निःश्रेयसं मे - मह्यं ब्रूहि । ‘नापुत्रायाशिष्याय’ (श्वे. उ. ६-२२) इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः । यतः शिष्यस्तेऽहं भवामि । शाधि - अनुशाधि मां निःश्रेयसम् । त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥