क्षत्रियाणां स्वधर्मत्वाद्युद्धमेव श्रेयस्करमित्याशङ्क्याह -
न चैतदिति ।
एतदपि न जानीमो भैक्षयुद्धयोः कतरन्नोऽस्माकं गरीयः - श्रेष्ठम् , किं भैक्षं हिंसाशून्यत्वात् , उत युद्धं स्ववृत्तित्वात् ? इति । सन्दिग्धा च जयस्थितिः । किं साम्यमेवोभयेषां यद्वा वयं जयेम - अतिशयीमहि, यदि वा नोऽस्मान् धार्तराष्ट्राः - दुर्योधनादयो जयेयुः ? जातोऽपि जयो न फलवान् , यतो यान् बन्धून् हत्वा न जिजीविषामः - जीवितुं नेच्छामः, ते एवावस्थिताः, प्रमुखे - सम्मुखे, धार्तराष्ट्राः - धृतराष्ट्रस्यापत्यानि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥