श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते -

गुरूनिति ।

गुरून् - भीष्मद्रोणादीन् भ्रात्रादींश्चात्र प्राप्तानहिंसित्वा । महानुभावान् - महामाहात्म्यान् श्रुताध्ययनसम्पन्नान् । श्रेयः - प्रशस्यतरं युक्तं भोक्तुं - अभ्यवहर्तुम् । भैक्षं - भिक्षाणां समूहः । भिक्षाशनं नृपादीनां निषिद्धमपि इह लोके -  व्यवहारभूमौ । न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते । किञ्च हत्वा गुर्वादीनर्थकामानेव भुञ्जीय, न मोक्षमनुभवेयम् । इहैव भोगः, न स्वर्गे ।

अर्थकामानेव विशिनष्टि -

भोगानिति ।

भुज्यन्ते इति भोगाः, तान् रुधिरप्रदिग्धान् - लोहितलिप्तानिव अत्यन्तगर्हितान् , अतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥