श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यद्यपि आत्मविनाशनिमित्तो मोहो सम्भवति नित्य आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकःइत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह

आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि, प्रकारान्तरेण शोकमोहौ स्याताम् ,  इत्याशङ्कामनूद्य, उत्तरत्वेन श्लोकमवतारयति -

यद्यपीत्यादिना ।

शीतोष्णयोस्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहादिर्दृश्यते, तस्य अन्वयव्यतिरेकाभ्यां दृश्यमानत्वमाश्रित्य लौकिकविशेषणम् । ‘अशोच्यान्’ (भ. भ. गी. २-११) इत्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’ (बृ. उ. ४-४-२३) इति श्रुतेस्तितिक्षुत्वविशेषणमिहोपदिश्यते।