तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति -
यं हीति ।
हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते । धीमन्तमिति - नित्यानित्याविवेकभागित्वम् । एतच्चोभयं वैराग्यादेरुपलक्षणम् ।
नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थज्ञानयोग्यतामाह -
स नित्येति
॥ १५ ॥