श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत् , ; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरितियद्विषया बुद्धिर्न व्यभिचरति, तत् सत् ; यद्विषया व्यभिचरति, तदसत् ; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे नीलोत्पलवत् , सन् घटः, सन् पटः, सन् हस्ती इतिएवं सर्वत्र तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरतितथा दर्शितम् तु सद्बुद्धिःतस्मात् घटादिबुद्धिविषयः असन् , व्यभिचारात् ; तु सद्बुद्धिविषयः, अव्यभिचारात्
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत् , ; सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरितियद्विषया बुद्धिर्न व्यभिचरति, तत् सत् ; यद्विषया व्यभिचरति, तदसत् ; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे नीलोत्पलवत् , सन् घटः, सन् पटः, सन् हस्ती इतिएवं सर्वत्र तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरतितथा दर्शितम् तु सद्बुद्धिःतस्मात् घटादिबुद्धिविषयः असन् , व्यभिचारात् ; तु सद्बुद्धिविषयः, अव्यभिचारात्

कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति -

तदसत्त्व इति ।

अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनादनुवृत्ते  च व्यावृत्तानां कल्पितत्वादकल्पितं सर्वभेदकल्पनाधिष्ठानमकार्यकारणं वस्तु सिध्यतीति परिहरति -

न ; सर्वत्रेति ।

सम्प्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति -

यद्विषयेति ।

यद्व्यावृत्तेष्वनुवृत्तं तत् परमार्थसत् यथा - सर्पधारादिष्वनुगतो रज्ज्वादेरिदमंशः । विमतं सत्यमव्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः ।

व्यावृत्तस्य कल्पितत्वे प्रमाणमाह -

यद्विषयेत्यादिना ।

यत् व्यावृत्तं तन्मिथ्या, यथा - सर्पधारादि । विमतं मिथ्या, व्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः । इत्यनुमानद्वयमनुसृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वम् , स्थितमिति शेषः ।

ननु - नेदमनुमानद्वयमुपपद्यते, समस्तद्वैतवैतथ्यवादिनो विभागाभावात् , अनुमानादिव्यवहारानुपपत्तेः तत्राह -

सदसदिति ।

उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्यनुमानादिव्यवहारो निर्वहति प्रातिभसिकविभागेन तद्योगात् परमार्थस्यैव तद्धेतुत्वे केवलव्यतिरेकाभावादित्यर्थः ।

कुतः ? सदसद्विभागस्य बुद्धिद्वयाधीनत्वं बुद्धिविभागस्यापि तवाभावात् , तत्राह -

 सर्वत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः । बुद्धिविभागस्यापि कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः ।

बुद्धिद्वयमनुरुध्य सदसद्विभागे, सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषे द्वे वस्तुनी वस्तुभूते स्याताम् इति चेत् , नेत्याह -

समानाधिकरणे इति ।

पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते । सोऽयमिति सामानाधिकरण्यवद्घटः सन्नित्यादि सामानाधिकरण्यमेकवस्तुनिष्ठं वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः ।

नीलमुत्पलमितिवद्धर्मधर्मिविषयतया सामानाधिकरण्यस्य सुवचत्वात् न वस्त्वैक्यविषयत्वम् इति चेत् , नेत्याह -

न नीलेति ।

न हि सामान्यविशेषयोर्भेदेऽभेदे च तद्भावः भेदाभेदौ च विरुद्धौ, अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः ।

सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति -

एवमिति ।

तुल्यौ हि तत्रापि विकल्पदोषाविति भावः ।

सामानाधिकरण्यानुपपत्त्या द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति -

तयोरिति ।

बुद्धिव्यभिचाराद्बोध्यव्यभिचारेपि, कथं व्यावृत्तानां विशेषाणामवस्तुत्वम् ? इत्याशङ्क्याह -

तथा चेति ।

विकारो हि स इत्यादाविति  शेषः ।

न चैकं वस्तु सामान्यविशेषात्मकमेकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य, सामान्यमेकमेव वस्तु तद्बुद्धेरव्यभिचारात् , बोध्यस्यापि सतस्तथात्वादित्याह -

न त्विति ।

व्यभिचरतीति पूर्वेण सम्बन्धः ।

विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहरति -

तस्मादिति ।

असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्फोरयति -

व्यभिचारादिति ।

सद्बुद्धिविषयस्य सतोऽकल्पितत्वे तच्छब्दोपात्तमेव हेतुमाह -

अव्यभिचारादिति ।