श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नासतो विद्यते भावो नाभावो विद्यते सतः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
सद्बुद्धिरपि नष्टे घटे दृश्यत इति चेत् , ; विशेष्याभावात् सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ? तु पुनः सद्बुद्धेः विषयाभावात्

विशेषाणामेवं व्यभिचारित्वे सतोऽपि तदुपपत्तेरव्यभिचारित्वहेत्वसिद्धितादवस्थ्यमिति शङ्कते -

सद्बुद्धिरिति ।

घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटाद्यभावाधिष्ठानतया भानादित्याह -

न विशेष्येति ।

यथा सर्वगता जातिरित्यत्र खण्डमुण्डादिव्यक्त्यभावदेशे गोत्वं व्यञ्जकाभावात् न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावात् न भाति, न स्वरूपाभावात् इत्युक्तमेव प्रपञ्चयति -

सदित्यादिना ।

सप्रतियोगिकविशेषणव्यभिचारेऽपि स्वरूपाव्यभिचाराद्युक्तं सतः सत्यत्वमिति भावः ।