आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह -
येनेति ।
आत्मनो विनाशाभावे युक्तिमाह -
विनाशमिति ।
आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते ? नाद्य इत्याह -
अविनाशीति ।
देहादिद्वैतमसदुच्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह -
तुशब्द इति ।
आकाङ्क्षापूर्वकं विशेष्यं दर्शयति -
किमित्यादिना ।
विमतं - अविनाशि, व्यापकत्वादाकाशवत् । न हि प्रमितमेवोदाहरणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह -
विनाशमिति ।
न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति -
अदर्शनमिति ।
न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह -
अव्ययस्येति ।
ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा ? इति विकल्प्य, आद्यं दूषयति -
नैतदिति ।
न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह -
देहादिवदिति ।
द्वितीयं निरस्यति -
नापीति ।
तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -
यथेति ।
द्विविधेऽपि व्ययायोगे फलितमाह -
अत इति ।
किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह -
न कश्चिदिति ।
आत्मत्वहेतोरसिद्धिमुद्धरति -
आत्मा हीति ।
तादात्म्यश्रुतिः अत्र हीति हेतूक्रियते ।
अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाशकमुद्बन्धनादिदर्शनात् , नेत्याह -
स्वात्मनीति
॥ १७ ॥