आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्धकर्तव्यत्वविधानात् ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्क्याह -
न हीति ।
युध्यस्वेति वचनात् तत्कर्तव्यत्वविधिरस्तीत्याशङ्क्यह -
युद्ध इति ।
कथं तर्हि ‘कथं भीष्ममहं’ (भ. भ. गी. २-४) इत्याद्यर्जुनस्य युद्धोपरमपरं वचनम् ? इति तत्राह -
शोकेति ।
यदि स्वतो युद्धे प्रवृत्तिः, तर्हि भगवद्वचनस्य का गतिरित्याशङ्क्याह -
तस्येति ।
भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सति अर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह -
तस्मादिति
‘अविनाशि तु तद् विद्धि’ (भ. भ. गी. २-१७) इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थं ‘अन्तवन्तः’ (भ. गी. २-१८) इत्यादि वचनमिति केचित् । अस्तु नाम अयमपि पन्थाः ॥ १८ ॥