श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शोकमोहादिसंसारकारणनिवृत्त्यर्थः गीताशास्त्रम् , प्रवर्तकम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनीनाय भगवान्यत्तु मन्यसेयुद्धे भीष्मादयो मया हन्यन्ते’ ‘अहमेव तेषां हन्ताइति, एषा बुद्धिः मृषैव तेकथम् ? —
शोकमोहादिसंसारकारणनिवृत्त्यर्थः गीताशास्त्रम् , प्रवर्तकम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनीनाय भगवान्यत्तु मन्यसेयुद्धे भीष्मादयो मया हन्यन्ते’ ‘अहमेव तेषां हन्ताइति, एषा बुद्धिः मृषैव तेकथम् ? —

पूर्वोक्तस्य गीताशास्रार्थस्योत्प्रेक्षामात्रमूलत्वं निराकर्तुं मन्त्रद्वयं भगवान् आनीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति -

शोकमोहादीति ।

तत्र प्रथममन्त्रस्य सङ्गतिमाह -

यत्त्विति ।

प्रत्यक्षनिबन्धनत्वादमुष्या बुद्धेर्मृषात्वमयुक्तमित्याक्षिपति -

कथमिति ।