कर्तृत्वाद्यभिमानविरोधात् अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति -
वेदेति ।
पदद्वयस्य पूर्वमेव पौनरुक्त्यपरिहारेऽपि प्रकारान्तरेणापौनरुक्त्यमाह -
अविनाशिनमित्यादिना ।
प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह -
उभयत्रेति ।
उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नः सम्भवति इत्यर्थः ।
विवक्षितं प्रकरणार्थं निगमयति -
हेत्वर्थस्येति ।
अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् ।
यदि विदुषः सर्वकर्मनिषेधोऽभिमतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते ? तत्राह -
हन्तेरिति ।