श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेद इति सम्बन्धःएनं पूर्वेण मन्त्रेणोक्तलक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति कथञ्चित् कञ्चित् हन्ति, कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एवार्थः, प्रश्नार्थासम्भवात्हेत्वर्थस्य अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थः अभिप्रेतो भगवताहन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कथितः

कर्तृत्वाद्यभिमानविरोधात् अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति -

वेदेति ।

पदद्वयस्य पूर्वमेव पौनरुक्त्यपरिहारेऽपि प्रकारान्तरेणापौनरुक्त्यमाह -

अविनाशिनमित्यादिना ।

प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह -

उभयत्रेति ।

उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नः सम्भवति इत्यर्थः ।

विवक्षितं प्रकरणार्थं निगमयति -

हेत्वर्थस्येति ।

अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् ।

यदि विदुषः सर्वकर्मनिषेधोऽभिमतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते ? तत्राह -

हन्तेरिति ।