उक्तं हेतुमाक्षेप्तुं पृच्छति -
विदुष इति ।
अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति -
नन्विति ।
उक्तमङ्गीकृत्य आक्षिपति -
सत्यमिति ।
विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह -
अन्यत्वादिति ।
अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्मप्रतिपत्तिविरोधात् ? इत्याशङ्क्याह -
न हीति ।
‘अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते -
न, विदुष इति ।
किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा ? नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् ।
न च विशेषणीभूतसङ्घातस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह -
न देहादीति ।
द्वितीये तु, जीवब्रह्मविभागासिद्धिः इत्याह -
असंहत इति ।
किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्रप्रतिबिम्बयोरनैकान्त्यात् भेदानुमानायोगात् , जीवब्रह्मणोरमेदसिद्धिरित्यभिप्रेत्य, फलितमाह -
इति तस्येति ।
ननु - अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति ? नाहि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह -
यथेति ।
अदृष्टेन्द्रियादिसहकृतमन्तः करणं प्रदीपप्रभावद्विषयपर्यन्तं परिणतं बु्द्धिवृत्तिरुच्यते । तत्र प्रतिबिम्बितं चैतन्यमभिव्यञ्जकबुद्धिवृत्त्यविवेकाद्विषयज्ञानमिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः ।
‘अहं ब्रह्म’ (बृ. उ. १-४-१०) इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावात् , आत्मनः सविशेषत्वमाशङ्क्य तस्या यावदुपाधिसत्त्वमेवेत्याह -
असत्येति ।
ननु - कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ, कस्य कर्माणि विधीयन्ते ? न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह -
विदुष इति ।