श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवत् विद्याविधानानर्थक्यात्तत्र अविदुषः कर्माणि विधीयन्ते विदुषः इति विशेषो नोपपद्यते इति चेत् , ; अनुष्ठेयस्य भावाभावविशेषोपपत्तेःअग्निहोत्रादिविध्यर्थज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकमनुष्ठेयम्कर्ता अहम् , मम कर्तव्यम्इत्येवंप्रकारविज्ञानवतः अविदुषः यथा अनुष्ठेयं भवति, तु तथा जायतेइत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्ठेयं भवति ; किं तुनाहं कर्ता, नाहं भोक्ताइत्याद्यात्मैकत्वाकर्तृत्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यतेयः पुनःकर्ता अहम्इति वेत्ति आत्मानम् , तस्यमम इदं कर्तव्यम्इति अवश्यंभाविनी बुद्धिः स्यात् ; तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि सम्भवन्ति अविद्वान् , उभौ तौ विजानीतः’ (भ. गी. २ । १९) इति वचनात् , विशेषितस्य विदुषः कर्माक्षेपवचनाच्चकथं पुरुषःइतितस्मात् विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षोश्च सर्वकर्मसंन्यासे एव अधिकारःअत एव भगवान् नारायणः साङ्ख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयतिज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इतितथा पुत्राय आह भगवान् व्यासःद्वाविमावथ पन्थानौ’ (शां. २४१ । ६) इत्यादितथा क्रियापथश्चैव पुरस्तात् पश्चात्संन्यासश्चेतिएतमेव विभागं पुनः पुनर्दर्शयिष्यति भगवान्अतत्त्ववित् अहङ्कारविमूढात्मा कर्ताहमिति मन्यते’ (भ. गी. ३ । २७), तत्त्ववित्तु नाहं करोमि इतितथा सर्वकर्माणि मनसा संन्यस्यास्ते’ (भ. गी. ५ । १३) इत्यादि

कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति -

नन्विति ।

कर्मविधानमविदुषः, विदुषश्चविद्याविघानमिति विभागे का हानिः ? इत्याशङ्क्याह -

विदितेति ।

विद्याया विदितत्वं लब्धत्वम् ।

कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह -

तत्रेति ।

धर्मज्ञानानन्तरम् अनुष्ठेयस्य भावात् ब्रह्मज्ञानोत्तरकालं च तदभावात् ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते -

न ; अनुष्ठेयस्येति ।

विशेषोपपत्तिमेव प्रपञ्चयति -

अग्निहोत्रादीति ।

ननु - देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह -

कर्ताहमिति ।

आत्मनि कर्ता भोक्ता इत्येवं विज्ञानवतत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेन अविदुषोऽनुष्ठेयं कर्मेत्यर्थः ।

देहादिव्यतिरेकज्ञानवत् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह -

न त्विति ।

अनुष्ठेयविरोधित्वात् अविक्रियात्मज्ञानस्येति शेषः ।

ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह -

नाहमिति ।

कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यदित्युक्तम् ।

अनुष्ठानाननुष्ठानयोरुक्तविशेषात् अविदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति -

इत्येष इति ।

नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह -

यः पुनरिति ।

आत्मनि कर्तृत्वादिज्ञानापेक्षाया कर्मस्वधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अकर्तुत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः ।

कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह -

विशेषितस्येति ।

‘वेदाविनाशिनम्’ (भ. भ. गी. २. २३) इत्यादिनेति शेषः ।

यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह -

तस्मादिति ।

विद्ययां विरुद्धत्वात् , इष्यमाणमेक्षप्रतिक्षत्वाच्च कर्मणामित्यर्थः ।

यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि । अन्यथा विविदिषासंन्यासविधिविरोधात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह -

अत एवेति ।

विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः ।

अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह -

तथा चेति ।

अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधिकारिभेेदेनावेदितावित्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’ (मो. ध. २४१-६) इत्यादि गृह्यते ।

उक्तयोर्मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह -

तथेति ।

बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः ।

उक्ते विभागे पुनरपि वाक्यशेषानुकूल्यमादर्शयति -

एतमेवेति ।

‘अहङ्कारविमूढात्मा’ (भ. गी. ३-२७) इत्यस्य व्याख्यानम् -

अतत्त्वविदिति ।

‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति -

नाहमिति ।

पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते ।

विरक्तमघिकृत्य वाक्यान्तरं पठति -

तथा चेति ।

आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः ।