श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदाविनाशिनं नित्यं एनमजमव्ययम्
कथं पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥
तत्र केचित्पण्डितंमन्या वदन्ति — ‘जन्मादिषड्भावविक्रियारहितः अविक्रियः अकर्ता एकः अहमात्माइति कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्वकर्मसंन्यासः उपदिश्यते इतितन्न ; जायते’ (भ. गी. २ । २०) इत्यादिशास्त्रोपदेशानर्थक्यप्रसङ्गात्यथा शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसम्बन्धविज्ञानमुत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः तेकरणागोचरत्वात् इति चेत् , ; मनसैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । १९) इति श्रुतेःशास्त्राचार्योपदेशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम्तथा तदधिगमाय अनुमाने आगमे सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत्ज्ञानं उत्पद्यमानं तद्विपरीतमज्ञानम् अवश्यं बाधते इत्यभ्युपगन्तव्यम्तच्च अज्ञानं दर्शितम्हन्ता अहम् , हतः अस्मिइतिउभौ तौ विजानीतःइतिअत्र आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं अज्ञानकृतं दर्शितम्तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम् , अविक्रियत्वात् आत्मनःविक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयतिकुरुइतितदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं प्रतिषेधति भगवान्वासुदेवः विदुषः कर्माधिकाराभावप्रदर्शनार्थम्वेदाविनाशिनं . . . कथं पुरुषःइत्यादिनाक्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्वमेव ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३ । ३) इतितथा सर्वकर्मसंन्यासं वक्ष्यति सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादिना

अविक्रियात्मज्ञानात् कर्मसंन्यासे दर्शिते, मीमांसकमतमुत्थापयति -

तत्रेति ।

आत्मनो ज्ञानक्रियाशक्त्याधारत्वेन अविक्रियत्वाभावात् अविक्रियात्मज्ञानं संन्यासकारणीभूतं न सम्भवतीत्यर्थः ।

‘यथोक्तज्ञानाभावो विषयाभावाद्वा ? मानाभावाद्वा ? ‘ इति विकल्प्य, आद्यं दूषयति -

नेत्यादिना ।

न तावदविक्रियात्माभावः ‘न जायते म्रियते’ (भ. गी. २-२०) इत्यादिशास्रस्याप्तवाक्यतया प्रमणस्यान्तरेण कारणमानर्थक्यायोगादित्यर्थः ।

द्वितीयं प्रत्याह -

यथा चेति ।

पारलौकिककर्मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति -

कर्तुश्चेति ।

कर्मकाण्डादज्ञाते धर्मादौ विज्ञानोत्पत्तिवत् , ज्ञानकाण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरविरुद्धा, प्रमाणत्वाविशेषादित्यर्थः ।

ज्ञानस्य मनःसंयोगजन्यत्वात् , आत्मनश्च श्रुत्या मनोगोचरत्वनिरासात् , न आत्मज्ञाने साधनमस्तीति शङ्कते -

करणेति ।

श्रुतिमाश्रित्य परिहरति -

न, मनसेति ।

‘तत्त्वमसि’ (छा. उ. ६-८-७) आदिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते । स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बनं भवतीति मनोगोचरत्वोपचारादसिद्धं करणागोचरत्वमित्यर्थः ।

कथं तर्हि ब्रह्मात्मनो मनोविषयत्वनिषेधश्रुतिः ? इत्याशङ्क्य, असंस्कृतमनोवृत्त्यविषयत्वविषया सेति मन्वानः सन्नाह -

शास्त्रेति ।

सत्यपि श्रुत्यादौ, तदनुग्राहकाभावात् नास्माकमविक्रियात्मकज्ञानमुत्पत्तुमर्हतीत्याशङ्क्याह -

तथेति ।

तस्य अविक्रियस्य आत्मनोऽधिगत्यर्थं, ‘विमतो विकारः, नात्मधर्मः, विकारत्वात् , उभयाभिमतविकारवत्’ इत्यनुमाने, पूर्वोक्तश्रुतिस्मृतिरूपागमे च सत्येव, तस्मिन्नोत्पद्यते ज्ञानम् , इति वचः साहसमात्रं, सत्येव माने मेयं न भातीतिवदित्यर्थः ।

ननु - यथोक्तं ज्ञानमुत्पन्नमपि हानाय उपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम् ? तत्राह -

ज्ञानं चेति ।

अवश्यमिति ।

प्रकाशप्रवृत्तेः तमोनिवृत्तिव्यतिरेकेण अनुपपत्तिवत् , आत्मज्ञाननिवृत्तमन्तरेण आत्मज्ञानोत्पत्तेरनुपपत्तेरित्यर्थः ।

ननु - अज्ञानस्य ज्ञानप्रागभावत्त्वात् तन्निवृत्तिरेव ज्ञानम् , नतु तन्निवर्तकमिति, तत्राह -

तच्चेति ।

कथं पुनर्भगवतापि ज्ञानाभावातिरिक्तमज्ञानं दर्शितम् ? इत्याशङ्क्याह -

अत्र चेति ।

‘विमतं, ज्ञानाभावो न भवति, उपादानत्वात् , मृदादिवत्’ इति भावः ।

ननु   - हननक्रियायाः ‘न हिंस्यात्’ इति निषिद्धत्वात् , तत्कर्तृत्वादेरज्ञानकृतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति, नेत्याह -

तच्चेति ।

न तावदात्मनि कर्तृत्वादि । नित्यम् , अमुक्तिप्रसङ्गात् । न चानित्यमपि निरुपादानम् , भावकार्यस्योपादाननियमात् । न च अनात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात् । न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगात् इत्याह -

अविक्रियत्वादिति ।

कर्तृत्वाभावेऽपि कारयितृत्वं स्यात् , इत्याशङ्क्याह -

विक्रियावानिति ।

आत्मनि कर्तृत्वादिप्रतिभानस्य अनाद्यनिर्वाच्यमज्ञानमुपादानम् , तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम् ।

इदानीं कर्तृत्वकारयितृत्वयोरविद्याकृतत्वे भगवतोऽनुमतिं दर्शयति -

तदेतदिति ।

विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यात् ? इति पृच्छति -

क्व पुनरिति ।

‘ज्ञाननिष्ठायाम्’ इत्युक्तं स्मारयति -

उक्तमिति ।

तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह -

तथेति ।